वांछित मन्त्र चुनें
आर्चिक को चुनें

न꣡ तस्य꣢꣯ मा꣣य꣡या꣢ च꣣ न꣢ रि꣣पु꣡री꣢शीत꣣ म꣡र्त्यः꣢ । यो꣢ अ꣣ग्न꣡ये꣢ द꣣दा꣡श꣢ ह꣣व्य꣡दा꣢तये ॥१०४॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

न तस्य मायया च न रिपुरीशीत मर्त्यः । यो अग्नये ददाश हव्यदातये ॥१०४॥

मन्त्र उच्चारण
पद पाठ

न꣢ । त꣡स्य꣢꣯ । मा꣣य꣡या꣢ । च꣣ । न꣢ । रि꣣पुः꣢ । ई꣣शीत । म꣡र्त्यः꣢꣯ । यः । अ꣣ग्न꣡ये꣢ । द꣣दा꣡श꣢ । ह꣣व्य꣡दा꣢तये । ह꣣व्य꣢ । दा꣣तये ॥१०४॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 104 | (कौथोम) 2 » 1 » 1 » 8 | (रानायाणीय) 1 » 11 » 8


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

परमात्माग्नि में हवि देने से क्या फल होता है, इसका अगले मन्त्र में वर्णन है।

पदार्थान्वयभाषाः -

(मायया च न) छल से भी (तस्य) उस परमात्मोपासक को (मर्त्यः) मानव (रिपुः) शत्रु (न ईशीत) वश में नहीं कर सकता, (यः) जो उपासक (हव्यदातये) देय पराक्रम, विजय आदि को देनेवाले (अग्नये) परमेश्वर के लिए (ददाश) आत्मसमर्पण रूप हवि को देता है ॥८॥

भावार्थभाषाः -

तरह-तरह के विघ्न-बाधा और संकटो से घिरे हुए इस जगत् में अनेक मानव शत्रु विद्वेषरूप विष से लिप्त होकर सज्जनों को ठगने, लूटने, जलाने व मारने का प्रयत्न करते हैं। परन्तु जो लोग परमात्मा को आत्मसमर्पण करके उससे शत्रु-पराजय के लिए बल की याचना करते हैं, उन्हें वह पुरुषार्थ में नियुक्त करके विजय पाने में ऐसा समर्थ कर देता है कि बलवान् और बड़ी संख्यावाले भी शत्रु माया से भी उन्हें वश में नहीं कर पाते ॥८॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमात्माग्नये हविर्दानेन किं फलं भवतीत्युच्यते।

पदार्थान्वयभाषाः -

(मायया च न२) छलेन अपि (तस्य) परमात्मोपासकस्य (मर्त्यः) मानवः (रिपुः) शत्रुः (न ईशीत) न ईशितुं वशं नेतुं शक्नोति, (यः) परमात्मोपासकः (हव्यदातये) हव्यानां देयानां विजयपराक्रमादीनां दातिः दानं यस्मात् तस्मै। बहुव्रीहौ पूर्वपदप्रकृतिस्वरः। (अग्नये) जगन्नायकाय परमेश्वराय (ददाश) आत्मसमर्पणरूपं हविः प्रयच्छति। दाशृ दाने धातोर्लडर्थे लिट् ॥८॥

भावार्थभाषाः -

विविधविघ्नबाधासंकटजालैराकीर्णेऽस्मिन् जगत्यनेके मर्त्याः शत्रवो विद्वेषविषदिग्धाः सन्तः सज्जनान् वञ्चयितुं वा लुण्ठितुं वा दग्धुं वा हन्तुं वा प्रयतन्ते। परं ये जनाः परमात्मने स्वात्मसमर्पणं कृत्वा तं शत्रुपराजयाय बलं याचन्ते तान् स पुरुषार्थे नियुज्य तथा विजयक्षमान् करोति यथा बलवन्तोऽपि बहुसंख्या अपि शत्रवो माययापि तान् वशं नेतुं न प्रभवन्ति ॥८॥

टिप्पणी: १. ऋ० ८।२३।१५, चन इति समस्तः, हव्यदातिभिः इति च पाठः। २. च न इति निपातद्वयं सह प्रयुक्तं सद् अप्यर्थे प्रायशो दृश्यते। ऋग्वेदे चन इत्येकपदतयैव पाठः पदकारेणापि तत्र पदद्वयतया न विभक्तम्। सामपदकारस्तु च न इति पृथक्त्वेन पठति, तत्रापि अप्यर्थ-ग्रहणे न कापि क्षतिः। अत्र—“मायया प्रज्ञया च। न शब्दः पूरणः—इति वि०। चनेति चार्थे—इति भ०। चनेति निपातसमुदायोऽप्यर्थे, मायया चन माययाऽपि—इति सा०।”